📚 स्कन्दपुराणम् (अवन्त्यखण्डः) - चतुराशीतिलिङ्गभागः
Page 1
Download 📥
________________ : : प्रथमोऽध्यायः ] * चतुरशीतिलिङ्गप्रकरणवर्णनम् * २४५ } अथचतुरशीतिलिङ्गमाहात्म्यारम्भः प्रथमोऽध्यायः अगस्त्येश्वर माहात्म्यवर्णनम् उमोवाच पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा । कथ्यतां तानि यत्नेन श्राद्ध येषु प्रदीयते ॥ १ ॥ ईश्वर उवाच अस्ति लोकेषु विख्याता गङ्गा त्रिपथगामिनी । सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता ॥ २ ॥ तपनस्य सुता देवी यमुना लोकपावनी । पितॄणां वल्लभा देवि महापातकहारिणी * एषोऽन्तिमोऽध्यायो मोहमयीस्थवेङ्कटेश्वरप्रकाशितपुस्तके नास्ति लक्ष्मणपुर ( लखनऊ ) प्रकाशित पुस्तकादुद्धृतोऽयमिति ।